|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.208. अध्यायः 208
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
ईश्वरेण पार्वतींप्रति वर्णाश्रमधर्मकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
महेश्वर उवाच।
हन्त ते कथयिष्यामि यत्ते देवि मनःप्रियम्।
शृणु तत्सर्वमखिलं धर्मं वर्णाश्रमाश्रितम्॥ 13-208-1(89395)
ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चेति चतुर्विधम्।
ब्राह्मणा विहिताः पूर्वं लोकतन्त्रमभीप्सता।
कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै॥ 13-208-2(89396)
यदीदमेकवर्णं स्याज्जगत्सर्वं विनश्यति।
सहैव देवि वर्णानि चत्वारि विहितान्यतः॥ 13-208-3(89397)
मुखतो ब्राह्मणाः सृष्टस्तस्मात्ते वाग्विशारदाः।
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात्ते बाहुगर्विताः॥ 13-208-4(89398)
ऊरुभ्यामुद्गता वैश्यास्तस्माद्वार्तोपजीविनः।
शूद्राश्च पादतः सृष्टास्तस्मात्ते परिचाकाः॥ 13-208-5(89399)
तेषां धर्मांश्च कर्माणि शृणु देवि समाहिता।
विप्राः कृता भूमिदेवा लोकानां धारणे कृताः।
ते कैश्चिन्नावमन्तव्या ब्राह्मणा हितमिच्छुभिः॥ 13-208-6(89400)
यदि ते ब्राह्मणा न स्युर्दानयोगवहाः सदा।
उभयोर्लोकयोर्देवि स्थितिर्न स्यात्समासतः॥ 13-208-7(89401)
लोकेषु दुर्लभं किंतु ब्राह्मणत्वमिति स्मृतम्।
अबुधो वा दरिद्रो वा पूजनीयः सदैव सः॥ 13-208-8(89402)
ब्राह्मणान्योऽवमन्येत निन्देच्च क्रोधयेच्च वा।
प्रहरेत हरेद्वाऽपि धनं तेषां नराधमः॥ 13-208-9(89403)
कारयेद्धीनकर्मणि कामलोभविमोहनात्।
स च मामवमन्येत मां क्रोधयति निन्दति॥ 13-208-10(89404)
मामेव प्रहरेन्मूढो मद्धनस्यापहारकः।
मामेव प्रेषणं कृत्वा निदन्ते मूढचेतनः॥ 13-208-11(89405)
स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः।
कर्मण्यध्यापनं चैव याजनं च प्रतिग्रहः।
सत्यं शान्तिस्तपः शौचं तस्य धर्मः सनातनः॥ 13-208-12(89406)
विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः।
अनापदि च शूद्रान्नं वृषलीसङ्ग्रहस्तथा॥ 13-208-13(89407)
तप एव सदा धर्मो ब्राह्मणस्य न संशयः।
स तु धर्मार्थमुत्पन्नः पूर्वं धात्रा तपोबलात्॥ 13-208-14(89408)
तस्योपनयनं धर्मो नित्यं चोदकधारणम्।
शास्त्रस्य श्रवणं धर्मो देवव्रतनिषेवणम्॥ 13-208-15(89409)
अग्निकार्यं परो धर्मो नित्ययज्ञोपवीतिता।
शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम्।
धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा॥ 13-208-16(89410)
गृहस्थस्य परो धर्मो गृहस्थाश्रमिणस्तथा।
गृहसम्मार्जनं धर्म आलेपनविधिस्तथा॥ 13-208-17(89411)
अतिथिप्रियता धर्मो धर्मस्त्रेताग्निधारणम्।
इष्टिर्वा पशुबन्धाश्च विधिपूर्वं परंतप॥ 13-208-18(89412)
दम्पत्योः समशीलत्वं धर्मो वै गृहमेधिनाम्।
एवं द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम्॥ 13-208-19(89413)
यस्तु क्षत्रगतो धर्मस्त्वया देवि प्रयोदितः।
तमहं ते प्रवक्ष्यामि शृणु देवि समाहिता॥ 13-208-20(89414)
क्षत्रियास्तु ततो देवि द्विजानां पालने स्मृताः।
यदि निःक्षत्रियो लोको जगत्स्यादधरोत्तरम्॥ 13-208-21(89415)
रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम्।
तस्याप्यध्ययनं दानं यजनं धर्मतः स्मृतम्॥ 13-208-22(89416)
दीनानां रक्षणं चैव पापनामनुशासनम्।
सतां सम्पोषणं चैव कर्मषण्मार्गजीवनम्॥ 13-208-23(89417)
उत्साहः शस्त्रजीवित्वं तस्य धर्मः सनातनः।
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता॥ 13-208-24(89418)
सम्यग्गुणयुतो धर्मो धर्मः पौरहितक्रिया।
व्यवहारस्थितिर्नित्यं गुणयुक्तो महीपतिः॥ 13-208-25(89419)
आर्तवित्तप्रदो राजा धर्मं प्राप्नोत्यनुत्तमम्।
एवं तैर्विहितः पूर्वैर्धर्मः कर्मविधानतः॥ 13-208-26(89420)
तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः।
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते॥ 13-208-27(89421)
यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे।
तेषामध्ययनं दानं गजनं धर्म उच्यते॥ 13-208-28(89422)
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा।
अग्निहोत्रपरिस्पन्दास्त्रयो वर्णा द्विजातयः॥ 13-208-29(89423)
वाणिज्यं सत्पथे स्थानमातिथेयत्वमेव च।
विप्राणां स्वागतन्यायो वैश्यधर्मः सनातनः॥ 13-208-30(89424)
तिलगन्धरसाश्चैव न विक्रेयाः कथञ्चन।
वणिक्पथमुपासद्भिर्वैश्यैर्वैश्यपथि स्थितैः॥ 13-208-31(89425)
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्।
एवं ते विहिता देवि लोकयात्रा स्वयंभुवा॥ 13-208-32(89426)
तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः।
शूद्राश्च यदि ते न स्युः कर्मकर्ता न विद्यते॥ 13-208-33(89427)
त्रयः पूर्वे शूद्रमूलाः सर्वे कर्मकराः स्मृताः।
ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः॥ 13-208-34(89428)
वार्ता च कारुकर्माणि शिल्यं नाट्यं तथैव च।
अहिंसकः शुभाचारो देवतद्विजवन्दकः॥ 13-208-35(89429)
शूद्रो धर्मफलैरिष्टैः स्वधर्मेणोपपद्यते।
एवमादि तथाऽन्यच्च शूद्रधर्म इति स्मृतः॥ 13-208-36(89430)
तेऽप्येवं विहिता लोके कर्मयोग्याः शुभानने॥ 13-208-37(89431)
एवं चतुर्णां वर्णानां वर्णलोकाः परत्र च।
विहिताश्च तथा दृष्टा यथावद्धर्मचारिणि॥ 13-208-38(89432)
एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम्।
कथितं श्रोतुकामायाः किं भूयः श्रोतुमिच्छसि॥ 13-208-39(89433)
उमोवाच। 13-208-40x(7461)
भगवन्देवदेवेश नमस्ते वृषभध्वज।
श्रोतुमिच्छाम्यहं देव धर्ममाश्रमिणां विभो॥ 13-208-40(89434)
महेश्वर उवाच। 13-208-41x(7462)
तथाऽऽश्रमगतं धर्मं शृणु देवि समाहिता।
आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः॥ 13-208-41(89435)
गृहस्थः प्रवरस्तेषां गार्हस्थ्यं धर्ममाश्रितः।
पञ्चयज्ञक्रियाशौचं दारतुष्टिरतन्द्रिता॥ 13-208-42(89436)
ऋतुकालाभिगमनं दानयज्ञतपांसि च।
अविप्रवासस्तस्येष्टः स्वाध्यायश्वाग्निपूर्वकम्॥ 13-208-43(89437)
अतिथीनामाभिमुख्यं शक्त्या चेष्टनिमन्त्रणम्।
अनुग्रहश्च सर्वेषां मनोवाक्कायकर्मभिः॥ 13-208-44(89438)
एवमादि शुभं चान्यत्कुर्यात्तद्वृत्तिमान्गृही।
एवं सञ्चरतस्तस्य पुण्यलोका न संशयः। 13-208-45(89439)
तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः॥ 13-208-46(89440)
गृहवासं समुत्सृकज्य निश्चित्यैकमनाः शुभैः।
वन्यैरेव तदाहारैः वर्तयेदिति च स्थितिः॥ 13-208-47(89441)
भूमिशय्या जटाश्मश्रुचर्मवल्कलधारणम्।
देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम्॥ 13-208-48(89442)
अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते।
ब्रह्मचर्यं क्षमा शौचं तस्य धर्मः सनातनः।
एवं स विगते प्राणे देवलोके महीयते॥ 13-208-49(89443)
यतिधर्मास्तथा देवि गृहांस्त्यक्त्वा यतस्ततः।
आकिञ्चन्यमनारम्भः सर्वतः शौचमार्जवम्॥ 13-208-50(89444)
सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम्।
सदा ध्यानपरत्वं च देहशुद्धिः क्षमा दया।
तत्वानुगतबुद्धित्वं तस्य धर्मविधिर्भवेत्॥ 13-208-51(89445)
ब्रह्मचारी च यो देवि जन्मप्रभृति भिक्षितः।
ब्रह्मचर्यपरो भूत्वा साधयेद्गुरुमात्मनः।
सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत्॥ 13-208-52(89446)
भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम्।
स्वाध्यायः सततं तस्य एष धर्मः सनातनः॥ 13-208-53(89447)
तस्य चेष्टा तु गुर्वर्थमाप्राणान्तमिति स्थितिः।
गुरोरभावे तत्पुत्रे गुरुवद्वृत्तिमाचरेत्॥ 13-208-54(89448)
एवं सोप्यमलाँल्लोकान्ब्राह्मणः प्रतिपद्यते।
एष ते कथितो देवि धर्मश्चाश्रमवासिनाम्॥ 13-208-55(89449)
चतुर्णामाश्रमो युक्तो लोक इत्येव विद्यते।
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि॥ ॥ 13-208-56(89450)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टोत्तरद्विशततमोऽध्यायः॥ 208 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-208-9 ब्राह्मणोऽभिहिता शुचिः इति क.पाठः॥ 7-208-55 आयुष्कामो द्विजो देवि धारयेद्भस्य नित्पशः। मोक्षकामी च यो विप्रो भूतिकामोथवा पुनः। पुनरावृत्तिरहितं लोकं सम्प्रतिपद्यते। इति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|